Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 1 - Creación
<<
5 - Las instrucciones de Nārada a Vyāsadeva acerca del Śrīmad Bhāgavatam
>>
Indice
Transliteración
Devanagari
Descripción
1.5.1
सूत उवाच
अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः
देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव
1.5.2
नारद उवाच
पाराशर्य महाभाग भवतः कच्चिदात्मना
परितुष्यति शारीर आत्मा मानस एव वा
1.5.3
जिज्ञासितं सुसम्पन्नमपि ते महदद्भुतम्
कृतवान्भारतं यस्त्वं सर्वार्थपरिबृंहितम्
1.5.4
जिज्ञासितमधीतं च ब्रह्म यत्तत्सनातनम्
तथापि शोचस्यात्मानमकृतार्थ इव प्रभो
1.5.5
व्यास उवाच
अस्त्येव मे सर्वमिदं त्वयोक्तं तथापि नात्मा परितुष्यते मे
तन्मूलमव्यक्तमगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम्
1.5.6
स वै भवान्वेद समस्तगुह्यमुपासितो यत्पुरुषः पुराणः
परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः
1.5.7
त्वं पर्यटन्नर्क इव त्रिलोकीमन्तश्चरो वायुरिवात्मसाक्षी
परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलं विचक्ष्व
1.5.8
श्रीनारद उवाच
भवतानुदितप्रायं यशो भगवतोऽमलम्
येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम्
1.5.9
यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः
न तथा वासुदेवस्य महिमा ह्यनुवर्णितः
1.5.10
न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित्
तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः
1.5.11
तद्वाग्विसर्गो जनताघविप्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि
नामान्यनन्तस्य यशोऽङ्कितानि यत्शृण्वन्ति गायन्ति गृणन्ति साधवः
1.5.12
नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम्
कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम्
1.5.13
अथो महाभाग भवानमोघदृक्षुचिश्रवाः सत्यरतो धृतव्रतः
उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम्
1.5.14
ततोऽन्यथा किञ्चन यद्विवक्षतः पृथग्दृशस्तत्कृतरूपनामभिः
न कर्हिचित्क्वापि च दुःस्थिता मतिर्लभेत वाताहतनौरिवास्पदम्
1.5.15
जुगुप्सितं धर्मकृतेऽनुशासतः स्वभावरक्तस्य महान्व्यतिक्रमः
यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः
1.5.16
विचक्षणोऽस्यार्हति वेदितुं विभोरनन्तपारस्य निवृत्तितः सुखम्
प्रवर्तमानस्य गुणैरनात्मनस्ततो भवान्दर्शय चेष्टितं विभोः
1.5.17
त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्भजन्नपक्वोऽथ पतेत्ततो यदि
यत्र क्व वाभद्रमभूदमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मतः
1.5.18
तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यधः
तल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा
1.5.19
न वै जनो जातु कथञ्चनाव्रजेन्मुकुन्दसेव्यन्यवदङ्ग संसृतिम्
स्मरन्मुकुन्दाङ्घ्र्युपगूहनं पुनर्विहातुमिच्छेन्न रसग्रहो जनः
1.5.20
इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवाः
तद्धि स्वयं वेद भवांस्तथापि ते प्रादेशमात्रं भवतः प्रदर्शितम्
1.5.21
त्वमात्मनात्मानमवेह्यमोघदृक्परस्य पुंसः परमात्मनः कलाम्
अजं प्रजातं जगतः शिवाय तन्महानुभावाभ्युदयोऽधिगण्यताम्
1.5.22
इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः
अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम्
1.5.23
अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम्
निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम्
1.5.24
ते मय्यपेताखिलचापलेऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्तिनि
चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणि
1.5.25
उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे तदपास्तकिल्बिषः
एवं प्रवृत्तस्य विशुद्धचेतसस्तद्धर्म एवात्मरुचिः प्रजायते
1.5.26
तत्रान्वहं कृष्णकथाः प्रगायतामनुग्रहेणाशृणवं मनोहराः
ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः
1.5.27
तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम
ययाहमेतत्सदसत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे
1.5.28
इत्थं शरत्प्रावृषिकावृतू हरेर्विशृण्वतो मेऽनुसवं यशोऽमलम्
सङ्कीर्त्यमानं मुनिभिर्महात्मभिर्भक्तिः प्रवृत्तात्मरजस्तमोपहा
1.5.29
तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः
श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च
1.5.30
ज्ञानं गुह्यतमं यत्तत्साक्षाद्भगवतोदितम्
अन्ववोचन्गमिष्यन्तः कृपया दीनवत्सलाः
1.5.31
येनैवाहं भगवतो वासुदेवस्य वेधसः
मायानुभावमविदं येन गच्छन्ति तत्पदम्
1.5.32
एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम्
यदीश्वरे भगवति कर्म ब्रह्मणि भावितम्
1.5.33
आमयो यश्च भूतानां जायते येन सुव्रत
तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम्
1.5.34
एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः
त एवात्मविनाशाय कल्पन्ते कल्पिताः परे
1.5.35
यदत्र क्रियते कर्म भगवत्परितोषणम्
ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम्
1.5.36
कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत्
गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च
1.5.37
ओं नमो भगवते तुभ्यं वासुदेवाय धीमहि
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च
1.5.38
इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम्
यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान्
1.5.39
इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम्
अदान्मे ज्ञानमैश्वर्यं स्वस्मिन्भावं च केशवः
1.5.40
त्वमप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम्
प्राख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्क्लेशनिर्वाणमुशन्ति नान्यथा
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library