Śrīmad-Bhāgavatam
Canto 4 - Creación del Cuarto Orden

<< 20 - El Señor Viṣṇu aparece en el cecinto de los sacrificios de Mahārāja Pṛthu >>
    Indice        Transliteración        Devanagari        Descripción    
4.20.1मैत्रेय उवाच भगवानपि वैकुण्ठः साकं मघवता विभुः । यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक्तमभाषत ॥१॥
4.20.2श्रीभगवानुवाच एष तेऽकार्षीद्भङ्गं हयमेधशतस्य ह । क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि ॥२॥
4.20.3सुधियः साधवो लोके नरदेव नरोत्तमाः । नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ॥३॥
4.20.4पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया । श्रम एव परं जातो दीर्घया वृद्धसेवया ॥४॥
4.20.5अतः कायमिमं विद्वानविद्याकामकर्मभिः । आरब्ध इति नैवास्मिन्प्रतिबुद्धोऽनुषज्जते ॥५॥
4.20.6असंसक्तः शरीरेऽस्मिन्नमुनोत्पादिते गृहे । अपत्ये द्रविणे वापि कः कुर्यान्ममतां बुधः ॥६॥
4.20.7एकः शुद्धः स्वयंज्योतिर्निर्गुणोऽसौ गुणाश्रयः । सर्वगोऽनावृतः साक्षी निरात्मात्मात्मनः परः ॥७॥
4.20.8य एवं सन्तमात्मानमात्मस्थं वेद पूरुषः । नाज्यते प्रकृतिस्थोऽपि तद्गुणैः स मयि स्थितः ॥८॥
4.20.9यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः । भजते शनकैस्तस्य मनो राजन्प्रसीदति ॥९॥
4.20.10परित्यक्तगुणः सम्यग्दर्शनो विशदाशयः । शान्तिं मे समवस्थानं ब्रह्म कैवल्यमश्नुते ॥१०॥
4.20.11उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् । कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् ॥११॥
4.20.12भिन्नस्य लिङ्गस्य गुणप्रवाहो द्रव्यक्रियाकारकचेतनात्मनः । दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्धसौहृदाः ॥१२॥
4.20.13समः समानोत्तममध्यमाधमः सुखे च दुःखे च जितेन्द्रियाशयः । मयोपकॢप्ताखिललोकसंयुतो विधत्स्व वीराखिललोकरक्षणम् ॥१३॥
4.20.14श्रेयः प्रजापालनमेव राज्ञो यत्साम्पराये सुकृतात्षष्ठमंशम् । हर्तान्यथा हृतपुण्यः प्रजाना मरक्षिता करहारोऽघमत्ति ॥१४॥
4.20.15एवं द्विजाग्र्यानुमतानुवृत्त धर्मप्रधानोऽन्यतमोऽवितास्याः । ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धाननुरक्तलोकः ॥१५॥
4.20.16वरं च मत्कञ्चन मानवेन्द्र वृणीष्व तेऽहं गुणशीलयन्त्रितः । नाहं मखैर्वै सुलभस्तपोभि र्योगेन वा यत्समचित्तवर्ती ॥१६॥
4.20.17मैत्रेय उवाच स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित् । अनुशासित आदेशं शिरसा जगृहे हरेः ॥१७॥
4.20.18स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा । शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥१८॥
4.20.19भगवानथ विश्वात्मा पृथुनोपहृतार्हणः । समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः ॥१९॥
4.20.20प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बितः । पश्यन्पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम् ॥२०॥
4.20.21स आदिराजो रचिताञ्जलिर्हरिं विलोकितुं नाशकदश्रुलोचनः । न किञ्चनोवाच स बाष्पविक्लवो हृदोपगुह्यामुमधादवस्थितः ॥२१॥
4.20.22अथावमृज्याश्रुकला विलोकयन् नतृप्तदृग्गोचरमाह पूरुषम् । पदा स्पृशन्तं क्षितिमंस उन्नते विन्यस्तहस्ताग्रमुरङ्गविद्विषः ॥२२॥
4.20.23पृथुरुवाच वरान्विभो त्वद्वरदेश्वराद्बुधः कथं वृणीते गुणविक्रियात्मनाम् । ये नारकाणामपि सन्ति देहिनां तानीश कैवल्यपते वृणे न च ॥२३॥
4.20.24न कामये नाथ तदप्यहं क्वचिन् न यत्र युष्मच्चरणाम्बुजासवः । महत्तमान्तर्हृदयान्मुखच्युतो विधत्स्व कर्णायुतमेष मे वरः ॥२४॥
4.20.25स उत्तमश्लोक महन्मुखच्युतो भवत्पदाम्भोजसुधा कणानिलः । स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां कुयोगिनां नो वितरत्यलं वरैः ॥२५॥
4.20.26यशः शिवं सुश्रव आर्यसङ्गमे यदृच्छया चोपशृणोति ते सकृत् । कथं गुणज्ञो विरमेद्विना पशुं श्रीर्यत्प्रवव्रे गुणसङ्ग्रहेच्छया ॥२६॥
4.20.27अथाभजे त्वाखिलपूरुषोत्तमं गुणालयं पद्मकरेव लालसः । अप्यावयोरेकपतिस्पृधोः कलि र्न स्यात्कृतत्वच्चरणैकतानयोः ॥२७॥
4.20.28जगज्जनन्यां जगदीश वैशसं स्यादेव यत्कर्मणि नः समीहितम् । करोषि फल्ग्वप्युरु दीनवत्सलः स्व एव धिष्ण्येऽभिरतस्य किं तया ॥२८॥
4.20.29भजन्त्यथ त्वामत एव साधवो व्युदस्तमायागुणविभ्रमोदयम् । भवत्पदानुस्मरणादृते सतां निमित्तमन्यद्भगवन्न विद्महे ॥२९॥
4.20.30मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तमात्थ यत् । वाचा नु तन्त्या यदि ते जनोऽसितः कथं पुनः कर्म करोति मोहितः ॥३०॥
4.20.31त्वन्माययाद्धा जन ईश खण्डितो यदन्यदाशास्त ऋतात्मनोऽबुधः । यथा चरेद्बालहितं पिता स्वयं तथा त्वमेवार्हसि नः समीहितुम् ॥३१॥
4.20.32मैत्रेय उवाच इत्यादिराजेन नुतः स विश्वदृक्त तमाह राजन्मयि भक्तिरस्तु ते । दिष्ट्येदृशी धीर्मयि ते कृता यया मायां मदीयां तरति स्म दुस्त्यजाम् ॥३२॥
4.20.33तत्त्वं कुरु मयादिष्टमप्रमत्तः प्रजापते । मदादेशकरो लोकः सर्वत्राप्नोति शोभनम् ॥३३॥
4.20.34मैत्रेय उवाच इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः । पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम् ॥३४॥
4.20.35-36देवर्षिपितृगन्धर्व सिद्धचारणपन्नगाः । किन्नराप्सरसो मर्त्याः खगा भूतान्यनेकशः ॥३५॥ यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः । सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥३६॥
4.20.37भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः । हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्यत ॥३७॥
4.20.38अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने । अव्यक्ताय च देवानां देवाय स्वपुरं ययौ ॥३८॥
Dona al Bhaktivedanta Library