Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 3 - El Status Quo
<<
6 - La creación de la forma universal
>>
Indice
Transliteración
Devanagari
Descripción
3.6.1
ऋषिरुवाच
इति तासां स्वशक्तीनां सतीनामसमेत्य सः
प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः
3.6.2
कालसञ्ज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रमः
त्रयोविंशति तत्त्वानां गणं युगपदाविशत्
3.6.3
सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम्
भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन्
3.6.4
प्रबुद्धकर्म दैवेन त्रयोविंशतिको गणः
प्रेरितोऽजनयत्स्वाभिर्मात्राभिरधिपूरुषम्
3.6.5
परेण विशता स्वस्मिन्मात्रया विश्वसृग्गणः
चुक्षोभान्योन्यमासाद्य यस्मिन्लोकाश्चराचराः
3.6.6
हिरण्मयः स पुरुषः सहस्रपरिवत्सरान्
आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहितः
3.6.7
स वै विश्वसृजां गर्भो देवकर्मात्मशक्तिमान्
विबभाजात्मनात्मानमेकधा दशधा त्रिधा
3.6.8
एष ह्यशेषसत्त्वानामात्मांशः परमात्मनः
आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते
3.6.9
साध्यात्मः साधिदैवश्च साधिभूत इति त्रिधा
विराट्प्राणो दशविध एकधा हृदयेन च
3.6.10
स्मरन्विश्वसृजामीशो विज्ञापितमधोक्षजः
विराजमतपत्स्वेन तेजसैषां विवृत्तये
3.6.11
अथ तस्याभितप्तस्य कतिधायतनानि ह
निरभिद्यन्त देवानां तानि मे गदतः शृणु
3.6.12
तस्याग्निरास्यं निर्भिन्नं लोकपालोऽविशत्पदम्
वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते
3.6.13
निर्भिन्नं तालु वरुणो लोकपालोऽविशद्धरेः
जिह्वयांशेन च रसं ययासौ प्रतिपद्यते
3.6.14
निर्भिन्ने अश्विनौ नासे विष्णोराविशतां पदम्
घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत्
3.6.15
निर्भिन्ने अक्षिणी त्वष्टा लोकपालोऽविशद्विभोः
चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत्
3.6.16
निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत्
प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते
3.6.17
कर्णावस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर्दिशः
श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते
3.6.18
त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः
अंशेन रोमभिः कण्डूं यैरसौ प्रतिपद्यते
3.6.19
मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत्
रेतसांशेन येनासावानन्दं प्रतिपद्यते
3.6.20
गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत्
पायुनांशेन येनासौ विसर्गं प्रतिपद्यते
3.6.21
हस्तावस्य विनिर्भिन्नाविन्द्रः स्वर्पतिराविशत्
वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते
3.6.22
पादावस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत्
गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते
3.6.23
बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत्
बोधेनांशेन बोद्धव्यम्प्रतिपत्तिर्यतो भवेत्
3.6.24
हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत्
मनसांशेन येनासौ विक्रियां प्रतिपद्यते
3.6.25
आत्मानं चास्य निर्भिन्नमभिमानोऽविशत्पदम्
कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते
3.6.26
सत्त्वं चास्य विनिर्भिन्नं महान्धिष्ण्यमुपाविशत्
चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते
3.6.27
शीर्ष्णोऽस्य द्यौर्धरा पद्भ्यां खं नाभेरुदपद्यत
गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः
3.6.28
आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे
धरां रजःस्वभावेन पणयो ये च ताननु
3.6.29
तार्तीयेन स्वभावेन भगवन्नाभिमाश्रिताः
उभयोरन्तरं व्योम ये रुद्रपार्षदां गणाः
3.6.30
मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह
यस्तून्मुखत्वाद्वर्णानां मुख्योऽभूद्ब्राह्मणो गुरुः
3.6.31
बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः
यो जातस्त्रायते वर्णान्पौरुषः कण्टकक्षतात्
3.6.32
विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभोः
वैश्यस्तदुद्भवो वार्तां नृणां यः समवर्तयत्
3.6.33
पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये
तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः
3.6.34
एते वर्णाः स्वधर्मेण यजन्ति स्वगुरुं हरिम्
श्रद्धयात्मविशुद्ध्यर्थं यज्जाताः सह वृत्तिभिः
3.6.35
एतत्क्षत्तर्भगवतो दैवकर्मात्मरूपिणः
कः श्रद्दध्यादुपाकर्तुं योगमायाबलोदयम्
3.6.36
तथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम्
कीर्तिं हरेः स्वां सत्कर्तुं गिरमन्याभिधासतीम्
3.6.37
एकान्तलाभं वचसो नु पुंसां सुश्लोकमौलेर्गुणवादमाहुः
श्रुतेश्च विद्वद्भिरुपाकृतायां कथासुधायामुपसम्प्रयोगम्
3.6.38
आत्मनोऽवसितो वत्स महिमा कविनादिना
संवत्सरसहस्रान्ते धिया योगविपक्कया
3.6.39
अतो भगवतो माया मायिनामपि मोहिनी
यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे
3.6.40
यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह
अहं चान्य इमे देवास्तस्मै भगवते नमः
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library