Śrīmad-Bhāgavatam
Canto 3 - El Status Quo

<< 24 - La renunciación de Kardama Muni >>
    Indice        Transliteración        Devanagari        Descripción    
3..24..1मैत्रेय उवाच निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन्
3..24..2ऋषिरुवाच मा खिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते भगवांस्तेऽक्षरो गर्भमदूरात्सम्प्रपत्स्यते
3..24..3धृतव्रतासि भद्रं ते दमेन नियमेन च तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज
3..24..4स त्वयाराधितः शुक्लो वितन्वन्मामकं यशः छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावनः
3..24..5मैत्रेय उवाच देवहूत्यपि सन्देशं गौरवेण प्रजापतेः सम्यक्ष्रद्धाय पुरुषं कूटस्थमभजद्गुरुम्
3..24..6तस्यां बहुतिथे काले भगवान्मधुसूदनः कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि
3..24..7अवादयंस्तदा व्योम्नि वादित्राणि घनाघनाः गायन्ति तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा
3..24..8पेतुः सुमनसो दिव्याः खेचरैरपवर्जिताः प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च
3..24..9तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम् स्वयम्भूः साकमृषिभिर्मरीच्यादिभिरभ्ययात्
3..24..10भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट्
3..24..11सभाजयन्विशुद्धेन चेतसा तच्चिकीर्षितम् प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात्
3..24..12ब्रह्मोवाच त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन्
3..24..13एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः बाढमित्यनुमन्येत गौरवेण गुरोर्वचः
3..24..14इमा दुहितरः सत्यस्तव वत्स सुमध्यमाः सर्गमेतं प्रभावैः स्वैर्बृंहयिष्यन्त्यनेकधा
3..24..15अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि
3..24..16वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने
3..24..17ज्ञानविज्ञानयोगेन कर्मणामुद्धरन्जटाः हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः
3..24..18एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति
3..24..19अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः
3..24..20मैत्रेय उवाच तावाश्वास्य जगत्स्रष्टा कुमारैः सहनारदः हंसो हंसेन यानेन त्रिधामपरमं ययौ
3..24..21गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः यथोदितं स्वदुहितः प्रादाद्विश्वसृजां ततः
3..24..22-23मरीचये कलां प्रादादनसूयामथात्रये श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम् पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम्
3..24..24अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते विप्रर्षभान्कृतोद्वाहान्सदारान्समलालयत्
3..24..25ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम्
3..24..26स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् विविक्त उपसङ्गम्य प्रणम्य समभाषत
3..24..27अहो पापच्यमानानां निरये स्वैरमङ्गलैः कालेन भूयसा नूनं प्रसीदन्तीह देवताः
3..24..28बहुजन्मविपक्वेन सम्यग्योगसमाधिना द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम्
3..24..29स एव भगवानद्य हेलनं न गणय्य नः गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः
3..24..30स्वीयं वाक्यमृतं कर्तुमवतीर्णोऽसि मे गृहे चिकीर्षुर्भगवान्ज्ञानं भक्तानां मानवर्धनः
3..24..31तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव यानि यानि च रोचन्ते स्वजनानामरूपिणः
3..24..32त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा सदाभिवादार्हणपादपीठम् ऐश्वर्यवैराग्ययशोऽवबोध वीर्यश्रिया पूर्तमहं प्रपद्ये
3..24..33परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये
3..24..34अ स्माभिपृच्छेऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्तकामः परिव्रजत्पदवीमास्थितोऽहं चरिष्ये त्वां हृदि युञ्जन्विशोकः
3..24..35श्रीभगवानुवाच मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके अथाजनि मया तुभ्यं यदवोचमृतं मुने
3..24..36एतन्मे जन्म लोकेऽस्मिन्मुमुक्षूणां दुराशयात् प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्मदर्शने
3..24..37एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम्
3..24..38गच्छ कामं मयापृष्टो मयि सन्न्यस्तकर्मणा जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज
3..24..39मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम् आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि
3..24..40मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् वितरिष्ये यया चासौ भयं चातितरिष्यति
3..24..41मैत्रेय उवाच एवं समुदितस्तेन कपिलेन प्रजापतिः दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह
3..24..42व्रतं स आस्थितो मौनमात्मैकशरणो मुनिः निःसङ्गो व्यचरत्क्षोणीमनग्निरनिकेतनः
3..24..43मनो ब्रह्मणि युञ्जानो यत्तत्सदसतः परम् गुणावभासे विगुण एकभक्त्यानुभाविते
3..24..44निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक्स्वदृक् प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः
3..24..45वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः
3..24..46आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि
3..24..47इच्छाद्वेषविहीनेन सर्वत्र समचेतसा भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः
Dona al Bhaktivedanta Library