Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 3 - El Status Quo
<<
15 - Descripción del reino de Dios
>>
Indice
Transliteración
Devanagari
Descripción
3..15..1
मैत्रेय उवाच
प्राजापत्यं तु तत्तेजः परतेजोहनं दितिः
दधार वर्षाणि शतं शङ्कमाना सुरार्दनात्
3..15..2
लोके तेनाहतालोके लोकपाला हतौजसः
न्यवेदयन्विश्वसृजे ध्वान्तव्यतिकरं दिशाम्
3..15..3
देवा ऊचुः
तम एतद्विभो वेत्थ संविग्ना यद्वयं भृशम्
न ह्यव्यक्तं भगवतः कालेनास्पृष्टवर्त्मनः
3..15..4
देवदेव जगद्धातर्लोकनाथशिखामणे
परेषामपरेषां त्वं भूतानामसि भाववित्
3..15..5
नमो विज्ञानवीर्याय माययेदमुपेयुषे
गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये
3..15..6
ये त्वानन्येन भावेन भावयन्त्यात्मभावनम्
आत्मनि प्रोतभुवनं परं सदसदात्मकम्
3..15..7
तेषां सुपक्वयोगानां जितश्वासेन्द्रियात्मनाम्
लब्धयुष्मत्प्रसादानां न कुतश्चित्पराभवः
3..15..8
यस्य वाचा प्रजाः सर्वा गावस्तन्त्येव यन्त्रिताः
हरन्ति बलिमायत्तास्तस्मै मुख्याय ते नमः
3..15..9
स त्वं विधत्स्व शं भूमंस्तमसा लुप्तकर्मणाम्
अदभ्रदयया दृष्ट्या आपन्नानर्हसीक्षितुम्
3..15..10
एष देव दितेर्गर्भ ओजः काश्यपमर्पितम्
दिशस्तिमिरयन्सर्वा वर्धतेऽग्निरिवैधसि
3..15..11
मैत्रेय उवाच
स प्रहस्य महाबाहो भगवान्शब्दगोचरः
प्रत्याचष्टात्मभूर्देवान्प्रीणन्रुचिरया गिरा
3..15..12
ब्रह्मोवाच
मानसा मे सुता युष्मत् पूर्वजाः सनकादयः
चेरुर्विहायसा लोकाल्लोकेषु विगतस्पृहाः
3..15..13
त एकदा भगवतो वैकुण्ठस्यामलात्मनः
ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम्
3..15..14
वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः
येऽनिमित्तनिमित्तेन धर्मेणाराधयन्हरिम्
3..15..15
यत्र चाद्यः पुमानास्ते भगवान्शब्दगोचरः
सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन्वृषः
3..15..16
यत्र नैःश्रेयसं नाम वनं कामदुघैर्द्रुमैः
सर्वर्तुश्रीभिर्विभ्राजत्कैवल्यमिव मूर्तिमत्
3..15..17
वैमानिकाः सललनाश्चरितानि शश्वद् गायन्ति यत्र शमलक्षपणानि भर्तुः
अन्तर्जलेऽनुविकसन्मधुमाधवीनां गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्तः
3..15..18
पारावतान्यभृतसारसचक्रवाक दात्यूहहंसशुकतित्तिरिबर्हिणां यः
कोलाहलो विरमतेऽचिरमात्रमुच्चैर् भृङ्गाधिपे हरिकथामिव गायमाने
3..15..19
मन्दारकुन्दकुरबोत्पलचम्पकार्ण पुन्नागनागबकुलाम्बुजपारिजाताः
गन्धेऽर्चिते तुलसिकाभरणेन तस्या यस्मिंस्तपः सुमनसो बहु मानयन्ति
3..15..20
यत्सङ्कुलं हरिपदानतिमात्रदृष्टैर् वैदूर्यमारकतहेममयैर्विमानैः
येषां बृहत्कटितटाः स्मितशोभिमुख्यः कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः
3..15..21
श्री रूपिणी क्वणयती चरणारविन्दं लीलाम्बुजेन हरिसद्मनि मुक्तदोषा
संलक्ष्यते स्फटिककुड्य उपेतहेम्नि सम्मार्जतीव यदनुग्रहणेऽन्ययत्नः
3..15..22
वापीषु विद्रुमतटास्वमलामृताप्सु प्रेष्यान्विता निजवने तुलसीभिरीशम्
अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्रम् उच्छेषितं भगवतेत्यमताङ्ग यच्छ्रीः
3..15..23
यन्न व्रजन्त्यघभिदो रचनानुवादाच् छृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः
यास्तु श्रुता हतभगैर्नृभिरात्तसारास् तांस्तान्क्षिपन्त्यशरणेषु तमःसु हन्त
3..15..24
येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना ज्ञानं च तत्त्वविषयं सहधर्मं यत्र
नाराधनं भगवतो वितरन्त्यमुष्य सम्मोहिता विततया बत मायया ते
3..15..25
यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या दूरे यमा ह्युपरि नः स्पृहणीयशीलाः
भर्तुर्मिथः सुयशसः कथनानुराग वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः
3..15..26
तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं दिव्यं विचित्रविबुधाग्र्यविमानशोचिः
आपुः परां मुदमपूर्वमुपेत्य योग मायाबलेन मुनयस्तदथो विकुण्ठम्
3..15..27
तस्मिन्नतीत्य मुनयः षडसज्जमानाः कक्षाः समानवयसावथ सप्तमायाम्
देवावचक्षत गृहीतगदौ परार्ध्य केयूरकुण्डलकिरीटविटङ्कवेषौ
3..15..28
मत्तद्विरेफवनमालिकया निवीतौ विन्यस्तयासितचतुष्टयबाहुमध्ये
वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां रक्तेक्षणेन च मनाग्रभसं दधानौ
3..15..29
द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा पूर्वा यथा पुरटवज्रकपाटिका याः
सर्वत्र तेऽविषमया मुनयः स्वदृष्ट्या ये सञ्चरन्त्यविहता विगताभिशङ्काः
3..15..30
तान्वीक्ष्य वातरशनांश्चतुरः कुमारान् वृद्धान्दशार्धवयसो विदितात्मतत्त्वान्
वेत्रेण चास्खलयतामतदर्हणांस्तौ तेजो विहस्य भगवत्प्रतिकूलशीलौ
3..15..31
ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः स्वर्हत्तमा ह्यपि हरेः प्रतिहारपाभ्याम्
ऊचुः सुहृत्तमदिदृक्षितभङ्ग ईषत् कामानुजेन सहसा त उपप्लुताक्षाः
3..15..32
मुनय ऊचुः
को वामिहैत्य भगवत्परिचर्ययोच्चैस् तद्धर्मिणां निवसतां विषमः स्वभावः
तस्मिन्प्रशान्तपुरुषे गतविग्रहे वां को वात्मवत्कुहकयोः परिशङ्कनीयः
3..15..33
न ह्यन्तरं भगवतीह समस्तकुक्षाव् आत्मानमात्मनि नभो नभसीव धीराः
पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किं व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य
3..15..34
तद्वाममुष्य परमस्य विकुण्ठभर्तुः कर्तुं प्रकृष्टमिह धीमहि मन्दधीभ्याम्
लोकानितो व्रजतमन्तरभावदृष्ट्या पापीयसस्त्रय इमे रिपवोऽस्य यत्र
3..15..35
तेषामितीरितमुभाववधार्य घोरं तं ब्रह्मदण्डमनिवारणमस्त्रपूगैः
सद्यो हरेरनुचरावुरु बिभ्यतस्तत् पादग्रहावपततामतिकातरेण
3..15..36
भूयादघोनि भगवद्भिरकारि दण्डो यो नौ हरेत सुरहेलनमप्यशेषम्
मा वोऽनुतापकलया भगवत्स्मृतिघ्नो मोहो भवेदिह तु नौ व्रजतोरधोऽधः
3..15..37
एवं तदैव भगवानरविन्दनाभः स्वानां विबुध्य सदतिक्रममार्यहृद्यः
तस्मिन्ययौ परमहंसमहामुनीनाम् अन्वेषणीयचरणौ चलयन्सहश्रीः
3..15..38
तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भिस् तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम्
हंसश्रियोर्व्यजनयोः शिववायुलोलच् छुभ्रातपत्रशशिकेसरशीकराम्बुम्
3..15..39
कृत्स्नप्रसादसुमुखं स्पृहणीयधाम स्नेहावलोककलया हृदि संस्पृशन्तम्
श्यामे पृथावुरसि शोभितया श्रिया स्वश् चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम्
3..15..40
पीतांशुके पृथुनितम्बिनि विस्फुरन्त्या काञ्च्यालिभिर्विरुतया वनमालया च
वल्गुप्रकोष्ठवलयं विनतासुतांसे विन्यस्तहस्तमितरेण धुनानमब्जम्
3..15..41
विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह गण्डस्थलोन्नसमुखं मणिमत्किरीटम्
दोर्दण्डषण्डविवरे हरता परार्ध्य हारेण कन्धरगतेन च कौस्तुभेन
3..15..42
अत्रोपसृष्टमिति चोत्स्मितमिन्दिरायाः स्वानां धिया विरचितं बहुसौष्ठवाढ्यम्
मह्यं भवस्य भवतां च भजन्तमङ्गं नेमुर्निरीक्ष्य न वितृप्तदृशो मुदा कैः
3..15..43
तस्यारविन्दनयनस्य पदारविन्द किञ्जल्कमिश्रतुलसीमकरन्दवायुः
अन्तर्गतः स्वविवरेण चकार तेषां सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः
3..15..44
ते वा अमुष्य वदनासितपद्मकोशम् उद्वीक्ष्य सुन्दरतराधरकुन्दहासम्
लब्धाशिषः पुनरवेक्ष्य तदीयमङ्घ्रि द्वन्द्वं नखारुणमणिश्रयणं निदध्युः
3..15..45
पुंसां गतिं मृगयतामिह योगमार्गैर् ध्यानास्पदं बहुमतं नयनाभिरामम्
पौंस्नं वपुर्दर्शयानमनन्यसिद्धैर् औत्पत्तिकैः समगृणन्युतमष्टभोगैः
3..15..46
कुमारा ऊचुः
योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं सोऽद्यैव नो नयनमूलमनन्त राद्धः
यर्ह्येव कर्णविवरेण गुहां गतो नः पित्रानुवर्णितरहा भवदुद्भवेन
3..15..47
तं त्वां विदाम भगवन्परमात्मतत्त्वं सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम्
यत्तेऽनुतापविदितैर्दृढभक्तियोगैर् उद्ग्रन्थयो हृदि विदुर्मुनयो विरागाः
3..15..48
नात्यन्तिकं विगणयन्त्यपि ते प्रसादं किम्वन्यदर्पितभयं भ्रुव उन्नयैस्ते
येऽङ्ग त्वदङ्घ्रिशरणा भवतः कथायाः कीर्तन्यतीर्थयशसः कुशला रसज्ञाः
3..15..49
कामं भवः स्ववृजिनैर्निरयेषु नः स्ताच् चेतोऽलिवद्यदि नु ते पदयो रमेत
वाचश्च नस्तुलसिवद्यदि तेऽङ्घ्रिशोभाः पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः
3..15..50
प्रादुश्चकर्थ यदिदं पुरुहूत रूपं तेनेश निर्वृतिमवापुरलं दृशो नः
तस्मा इदं भगवते नम इद्विधेम योऽनात्मनां दुरुदयो भगवान्प्रतीतः
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library