Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 2 - La Manifestación Cósmica
<<
8 - Las preguntas del Rey Parīkṣit
>>
Indice
Transliteración
Devanagari
Descripción
2.8.1
राजोवाच
ब्रह्मणा चोदितो ब्रह्मन्गुणाख्यानेऽगुणस्य च
यस्मै यस्मै यथा प्राह नारदो देवदर्शनः
2.8.2
एतद्वेदितुमिच्छामि तत्त्वं तत्त्वविदां वर
हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः
2.8.3
कथयस्व महाभाग यथाहमखिलात्मनि
कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम्
2.8.4
शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम्
कालेन नातिदीर्घेण भगवान्विशते हृदि
2.8.5
प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम्
धुनोति शमलं कृष्णः सलिलस्य यथा शरत्
2.8.6
धौतात्मा पुरुषः कृष्ण पादमूलं न मुञ्चति
मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा
2.8.7
यदधातुमतो ब्रह्मन्देहारम्भोऽस्य धातुभिः
यदृच्छया हेतुना वा भवन्तो जानते यथा
2.8.8
आसीद्यदुदरात्पद्मं लोकसंस्थानलक्षणम्
यावानयं वै पुरुष इयत्तावयवैः पृथक्
तावानसाविति प्रोक्तः संस्थावयववानिव
2.8.9
अजः सृजति भूतानि भूतात्मा यदनुग्रहात्
ददृशे येन तद्रूपं नाभिपद्मसमुद्भवः
2.8.10
स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः
मुक्त्वात्ममायां मायेशः शेते सर्वगुहाशयः
2.8.11
पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः
लोकैरमुष्यावयवाः सपालैरिति शुश्रुम
2.8.12
यावान्कल्पो विकल्पो वा यथा कालोऽनुमीयते
भूतभव्यभवच्छब्द आयुर्मानं च यत्सतः
2.8.13
कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपि
यावत्यः कर्मगतयो यादृशीर्द्विजसत्तम
2.8.14
यस्मिन्कर्मसमावायो यथा येनोपगृह्यते
गुणानां गुणिनां चैव परिणाममभीप्सताम्
2.8.15
भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम्
सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम्
2.8.16
प्रमाणमण्डकोशस्य बाह्याभ्यन्तरभेदतः
महतां चानुचरितं वर्णाश्रमविनिश्चयः
2.8.17
युगानि युगमानं च धर्मो यश्च युगे युगे
अवतारानुचरितं यदाश्चर्यतमं हरेः
2.8.18
नृणां साधारणो धर्मः सविशेषश्च यादृशः
श्रेणीनां राजर्षीणां च धर्मः कृच्छ्रेषु जीवताम्
2.8.19
तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम्
पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च
2.8.20
योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तु योगिनाम्
वेदोपवेदधर्माणामितिहासपुराणयोः
2.8.21
सम्प्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः
इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः
2.8.22
यो वानुशायिनां सर्गः पाषण्डस्य च सम्भवः
आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः
2.8.23
यथात्मतन्त्रो भगवान्विक्रीडत्यात्ममायया
विसृज्य वा यथा मायामुदास्ते साक्षिवद्विभुः
2.8.24
सर्वमेतच्च भगवन्पृच्छतो मेऽनुपूर्वशः
तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने
2.8.25
अत्र प्रमाणं हि भवान्परमेष्ठी यथात्मभूः
अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम्
2.8.26
न मेऽसवः परायन्ति ब्रह्मन्ननशनादमी
पिबतो ञ्च्युतपीयूषम्तद्वाक्याब्धिविनिःसृतम्
2.8.27
सूत उवाच
स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः
ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि
2.8.28
प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम्
ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते
2.8.29
यद्यत्परीक्षिदृषभः पाण्डूनामनुपृच्छति
आनुपूर्व्येण तत्सर्वमाख्यातुमुपचक्रमे
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library