Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 2 - La Manifestación Cósmica
<<
2 - El Señor que está en el corazón
>>
Indice
Transliteración
Devanagari
Descripción
2.2.1
श्रीशुक उवाच
एवं पुरा धारणयात्मयोनिर्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात्
तथा ससर्जेदममोघदृष्टिर्यथाप्ययात्प्राग्व्यवसायबुद्धिः
2.2.2
शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थैः
परिभ्रमंस्तत्र न विन्दतेऽर्थान्मायामये वासनया शयानः
2.2.3
अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः
सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाणः
2.2.4
सत्यां क्षितौ किं कशिपोः प्रयासैर्बाहौ स्वसिद्धे ह्युपबर्हणैः किम्
सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैः
2.2.5
चीराणि किं पथि न सन्ति दिशन्ति भिक्षां नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन्
रुद्धा गुहाः किमजितोऽवति नोपसन्नान् कस्माद्भजन्ति कवयो धनदुर्मदान्धान्
2.2.6
एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियोऽर्थो भगवाननन्तः
तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र
2.2.7
कस्तां त्वनादृत्य परानुचिन्तामृते पशूनसतीं नाम कुर्यात्
पश्यञ्जनं पतितं वैतरण्यां स्वकर्मजान्परितापाञ्जुषाणम्
2.2.8
केचित्स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम्
चतुर्भुजं कञ्जरथाङ्गशङ्ख गदाधरं धारणया स्मरन्ति
2.2.9
रसन्नवक्त्रं नलिनायतेक्षणं कदम्बकिञ्जल्कपिशङ्गवाससम्
लसन्महारत्नहिरण्मयाङ्गदं स्फुरन्महारत्नकिरीटकुण्डलम्
2.2.10
उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम्
श्रीलक्षणं कौस्तुभरत्नकन्धरमम्लानलक्ष्म्या वनमालयाचितम्
2.2.11
विभूषितं मेखलयाङ्गुलीयकैर्महाधनैर्नूपुरकङ्कणादिभिः
स्निग्धामलाकुञ्चितनीलकुन्तलैर्विरोचमानाननहासपेशलम्
2.2.12
अदीनलीलाहसितेक्षणोल्लसद्भ्रूभङ्गसंसूचितभूर्यनुग्रहम्
ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयावतिष्ठते
2.2.13
एकैकशोऽङ्गानि धियानुभावयेत्पादादि यावद्धसितं गदाभृतः
जितं जितं स्थानमपोह्य धारयेत्परं परं शुद्ध्यति धीर्यथा यथा
2.2.14
यावन्न जायेत परावरेऽस्मिन्विश्वेश्वरे द्रष्टरि भक्तियोगः
तावत्स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत
2.2.15
स्थिरं सुखं चासनमास्थितो यतिर्यदा जिहासुरिममङ्ग लोकम्
काले च देशे च मनो न सज्जयेत्प्राणान्नियच्छेन्मनसा जितासुः
2.2.16
मनः स्वबुद्ध्यामलया नियम्य क्षेत्रज्ञ एतां निनयेत्तमात्मनि
आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात्
2.2.17
न यत्र कालोऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे
न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान्प्रधानम्
2.2.18
परं पदं वैष्णवमामनन्ति तद्यन्नेति नेतीत्यतदुत्सिसृक्षवः
विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे
2.2.19
इत्थं मुनिस्तूपरमेद्व्यवस्थितो विज्ञानदृग्वीर्यसुरन्धिताशयः
स्वपार्ष्णिनापीड्य गुदं ततोऽनिलं स्थानेषु षट्सून्नमयेज्जितक्लमः
2.2.20
नाभ्यां स्थितं हृद्यधिरोप्य तस्मादुदानगत्योरसि तं नयेन्मुनिः
ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत
2.2.21
तस्माद्भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्षः
स्थित्वा मुहूर्तार्धमकुण्ठदृष्टिर्निर्भिद्य मूर्धन्विसृजेत्परं गतः
2.2.22
यदि प्रयास्यन्नृप पारमेष्ठ्यं वैहायसानामुत यद्विहारम्
अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च
2.2.23
योगेश्वराणां गतिमाहुरन्तर्बहिस्त्रिलोक्याः पवनान्तरात्मनाम्
न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम्
2.2.24
वैश्वानरं याति विहायसा गतः सुषुम्णया ब्रह्मपथेन शोचिषा
विधूतकल्कोऽथ हरेरुदस्तात्प्रयाति चक्रं नृप शैशुमारम्
2.2.25
तद्विश्वनाभिं त्वतिवर्त्य विष्णोरणीयसा विरजेनात्मनैकः
नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद्विबुधा रमन्ते
2.2.26
अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम्
निर्याति सिद्धेश्वरयुष्टधिष्ण्यं यद्द्वैपरार्ध्यं तदु पारमेष्ठ्यम्
2.2.27
न यत्र शोको न जरा न मृत्युर्नार्तिर्न चोद्वेग ऋते कुतश्चित्
यच्चित्ततोऽदः कृपयानिदंविदां दुरन्तदुःखप्रभवानुदर्शनात्
2.2.28
ततो विशेषं प्रतिपद्य निर्भयस्तेनात्मनापोऽनलमूर्तिरत्वरन्
ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम्
2.2.29
घ्राणेन गन्धं रसनेन वै रसं रूपं च दृष्ट्या श्वसनं त्वचैव
श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिमुपैति योगी
2.2.30
स भूतसूक्ष्मेन्द्रियसन्निकर्षं मनोमयं देवमयं विकार्यम्
संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसन्निरोधम्
2.2.31
तेनात्मनात्मानमुपैति शान्तमानन्दमानन्दमयोऽवसाने
एतां गतिं भागवतीं गतो यः स वै पुनर्नेह विषज्जतेऽङ्ग
2.2.32
एते सृती ते नृप वेदगीते त्वयाभिपृष्टे च सनातने च
ये वै पुरा ब्रह्मण आह तुष्ट आराधितो भगवान्वासुदेवः
2.2.33
न ह्यतोऽन्यः शिवः पन्था विशतः संसृताविह
वासुदेवे भगवति भक्तियोगो यतो भवेत्
2.2.34
भगवान्ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया
तदध्यवस्यत्कूटस्थो रतिरात्मन्यतो भवेत्
2.2.35
भगवान्सर्वभूतेषु लक्षितः स्वात्मना हरिः
दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः
2.2.36
तस्मात्सर्वात्मना राजन्हरिः सर्वत्र सर्वदा
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम्
2.2.37
पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु सम्भृतम्
पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम्
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library