Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 1 - Creación
<<
16 - Cómo Parīkṣit recibió la era de Kali
>>
Indice
Transliteración
Devanagari
Descripción
1..16..1
सूत उवाच
ततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास ह
यथा हि सूत्यामभिजातकोविदाः समादिशन्विप्र महद्गुणस्तथा
1..16..2
स उत्तरस्य तनयामुपयेम इरावतीम्
जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान्
1..16..3
आजहाराश्वमेधांस्त्रीन्गङ्गायां भूरिदक्षिणान्
शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः
1..16..4
निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित्
नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा
1..16..5
शौनक उवाच
कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः
नृदेवचिह्नधृक्षूद्र कोऽसौ गां यः पदाहनत्
तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम्
1..16..6
अथवास्य पदाम्भोज मकरन्दलिहां सताम्
किमन्यैरसदालापैरायुषो यदसद्व्ययः
1..16..7
क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम्
इहोपहूतो भगवान्मृत्युः शामित्रकर्मणि
1..16..8
न कश्चिन्म्रियते तावद्यावदास्त इहान्तकः
एतदर्थं हि भगवानाहूतः परमर्षिभिः
अहो नृलोके पीयेत हरिलीलामृतं वचः
1..16..9
मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै
निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः
1..16..10
सूत उवाच
यदा परीक्षित्कुरुजाङ्गलेऽवसत्कलिं प्रविष्टं निजचक्रवर्तिते
निशम्य वार्तामनतिप्रियां ततः शरासनं संयुगशौण्डिराददे
1..16..11
स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजमाश्रितः पुरात्
वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः
1..16..12
भद्राश्वं केतुमालं च भारतं चोत्तरान्कुरून्
किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम्
1..16..13-15
तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम्
प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम्
आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः
स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे
तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः
महाधनानि वासांसि ददौ हारान्महामनाः
1..16..16
सारथ्यपारषदसेवनसख्यदौत्य वीरासनानुगमनस्तवनप्रणामान्
स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर् भक्तिं करोति नृपतिश्चरणारविन्दे
1..16..17
तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम्
नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मे
1..16..18
धर्मः पदैकेन चरन्विच्छायामुपलभ्य गाम्
पृच्छति स्माश्रुवदनां विवत्सामिव मातरम्
1..16..19
धर्म उवाच
कच्चिद्भद्रेऽनामयमात्मनस्ते विच्छायासि म्लायतेषन्मुखेन
आलक्षये भवतीमन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब
1..16..20
पादैर्न्यूनं शोचसि मैकपादमात्मानं वा वृषलैर्भोक्ष्यमाणम्
आहो सुरादीन्हृतयज्ञभागान्प्रजा उत स्विन्मघवत्यवर्षति
1..16..21
अरक्ष्यमाणाः स्त्रिय उर्वि बालान्शोचस्यथो पुरुषादैरिवार्तान्
वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान्
1..16..22
किं क्षत्रबन्धून्कलिनोपसृष्टान्राष्ट्राणि वा तैरवरोपितानि
इतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम्
1..16..23
यद्वाम्ब ते भूरिभरावतार कृतावतारस्य हरेर्धरित्रि
अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि
1..16..24
इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि
कालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतमम्ब सौभगम्
1..16..25
धरण्युवाच
भवान्हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि
चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः
1..16..26-30
सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम्
शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम्
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः
स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः
गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः
एते चान्ये च भगवन्नित्या यत्र महागुणाः
तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम्
शोचामि रहितं लोकं पाप्मना कलिनेक्षितम्
1..16..31
आत्मानं चानुशोचामि भवन्तं चामरोत्तमम्
देवान्पितॄनृषीन्साधून्सर्वान्वर्णांस्तथाश्रमान्
1..16..32-33
ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष कामास्तपः समचरन्भगवत्प्रपन्नाः
सा श्रीः स्ववासमरविन्दवनं विहाय यत्पादसौभगमलं भजतेऽनुरक्ता
तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी
त्रीनत्यरोच उपलभ्य ततो विभूतिं लोकान्स मां व्यसृजदुत्स्मयतीं तदन्ते
1..16..34
यो वै ममातिभरमासुरवंशराज्ञाम् अक्षौहिणीशतमपानुददात्मतन्त्रः
त्वां दुःस्थमूनपदमात्मनि पौरुषेण सम्पादयन्यदुषु रम्यमबिभ्रदङ्गम्
1..16..35
का वा सहेत विरहं पुरुषोत्तमस्य प्रेमावलोकरुचिरस्मितवल्गुजल्पैः
स्थैर्यं समानमहरन्मधुमानिनीनां रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः
1..16..36
तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा
परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम्
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library